वी॒रेण्य॒: क्रतु॒रिन्द्र॑: सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे । आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥
vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe | ārdayad vṛtram akṛṇod u lokaṁ sasāhe śakraḥ pṛtanā abhiṣṭiḥ ||
वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ । आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊँ॒ इति॑ । लोक॑म् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥ १०.१०४.१०